Shri Narasimham Shri Lakshmisahitam
श्रीनरसिंहं श्रीलक्ष्मीसहितम्|ಶ್ರೀನರಸಿಂಹಂ ಶ್ರೀಲಕ್ಷ್ಮೀಸಹಿತಂ|శ్రీనరసింహం శ్రీలక్ష్మీసహితం
- Raga
- Ragamalika (Reetigowla, Amrithavarshini, Bageshri, Shubhapanthuvarali)
- Tala
- Adi

Lyrics
श्रीनरसिंहं श्रीलक्ष्मीसहितम् पल्लवी श्रीनरसिंहं श्रीलक्ष्मीसहितं प्रणमामि प्रत्यहं परिपालकम् || चरणम् - 1 अगस्त्यमुनिवन्द्यं सह्याद्रिवासं परमभाग्यदपादमखिलाधारम् | सदाश्रयवरदं परमगतिप्रदं सर्वव्यापिनं निरुपमवदनम् || चरणम् - 2 अभयवरदहस्तमौदार्यपूर्णं यतिवर्यस्तूयमानं श्रितपालकम् | दुरितनाशकरूपं त्रिभुवनपालकं ममेष्टवरदमधुमतिवल्लभम् || चरणम् - 3 असुरतनयवन्द्यमुदारहृदयं विखुरमर्दनदेवमचिन्त्यशक्तिम् | गरुडसेवितविष्णुं भुजगपतिपीठं दिव्यसिंहाननं शरण्यं सर्वात्मकम् || चरणम् - 4 आश्रितवत्सलकरुणासागरं विबुधवन्दितरूपं सकलार्तिनाशकम् | कामितफलप्रदश्रीपतिमच्युतं मुक्तिदायकं वन्दे नागराजनतम् ||
Recitation

Watch on YouTube
