Lyrics
अपर्णाद्यपुत्रं गणाराध्यदेवं गिरीशाग्रपुत्रं परं ध्यानगम्यम् | कुमाराग्रजं ज्ञानमूर्तिं सुरूपं महादिव्यरूपं गणेशं भजेऽहम् || १ || अतुल्याग्रपूज्यं गणज्ञं गणाङ्गं गजाधीशदेवं गजास्यं गजेशम् | गुणाधारदेवं गुणाढ्यं गुणेशं महादिव्यरूपं गणेशं भजेऽहम् || २ || अजेयाद्यवन्द्यं गणाध्यक्षदेवं गुणाधीशदेवं गुणज्ञं मनोज्ञम् | प्रसन्नात्महृष्टं प्रमोदं च तुष्टं महादिव्यरूपं गणेशं भजेऽहम् || ३ || अचिन्त्यप्रकाशं सुरेशं परेशं गणज्येष्ठरूपं गरिष्ठं वरिष्ठम् | बुधं वक्रतुण्डं शरण्यं वरेण्यं महादिव्यरूपं गणेशं भजेऽहम् || ४ || अचिन्त्यादिरूपं गणादिं सुरादिं गणश्रेष्ठरूपं धृवं गीततत्त्वम् | गणप्रेष्ठरूपं कविं गानगम्यं महादिव्यरूपं गणेशं भजेऽहम् || ५ ||
Recitation

Watch on YouTube

